सामग्री पर जाएँ

त्रिपात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिपात्, [द्] पुं, (त्रयः पादा अस्य । “संख्या सुपूर्ब्बस्य ।” ५ । ४ । १४० । इति पादस्यान्त- लोपः ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (वेदादि- मते संसाररहितो ब्रह्मस्वरूपः पुरुषः । यथा, ऋग्वेदे । १० । ९० । ४ । “त्रिपादूर्द्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ॥” पुराणादिमते वामनावतारे त्रिपात् भूत्वा बलिसकाशात् सर्व्वं राज्यादिकं गृहीतवानित्य- तोऽस्य तथात्वम् । तथाच भागवते । ८ । २० । ३४ । “क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य्युपर्य्यथो महर्जनाभ्यां तपसः परं गतः ॥”) ज्वरः । यथा, -- “विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ॥” इति श्रीभागवतम् ॥

"https://sa.wiktionary.org/w/index.php?title=त्रिपात्&oldid=138975" इत्यस्माद् प्रतिप्राप्तम्