त्रिपुटा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुटा, स्त्री, (त्रीणि पुटानि दलवृत्तयो यस्याः ।) मल्लिका । सूक्ष्मैला । त्रिवृत् । इति मेदिनी । के, ४५ ॥ कर्णस्फोटा । स्थूलैला । रक्तत्रिवृत् । इति राजनिर्घण्टः ॥ देवीविशेषः । यथा, -- “ऋषिः सम्नोहनश्छन्दो गायत्त्री देवता पुनः । त्रिपुटाख्या द्बिरुक्तैस्तैर्व्वीजैरङ्गानि षट् क्रमात् ॥” अस्या रूपं यथा, -- “पारिजातवने रम्ये मण्डपे मणिकुट्टिमे । रत्नसिंहासने रम्ये पद्मे षट्कोणशोभिते ॥ अधस्तात् कल्पवृक्षस्य निषण्णां देवतां स्मरेत् । चापं पाशाम्बुजसरसिजान्यङ्कुशं पुष्पबाणान् संबिभ्राणां करसरसिजै रत्नमौलिं त्रिनेत्राम् । हेमाब्जाभां कुचभरनतां रत्नमञ्जीरकाञ्ची- ग्रैवेयाद्यैर्व्विलसिततनुं भावयेच्छक्तिमाद्याम् ॥ चामरादर्शताम्बूलकरण्डकसमुद्गकान् । वहन्तीभिः कुचार्त्ताभिर्दूतीभिः परिवारिताम् ॥ करुणामृतवर्षिण्या पश्यन्तीं साधकं दृशा ॥” इति तन्त्रसारः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुटा स्त्री।
शुक्लत्रिधारा
समानार्थक:सर्वानुभूति,सरला,त्रिपुटा,त्रिवृता,त्रिवृत्,त्रिभण्डी,रोचनी
2।4।108।1।3
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत्. त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
त्रिपुटा स्त्री।
सूक्ष्मेला
समानार्थक:उपकुञ्चिका,तुत्था,कोरङ्गी,त्रिपुटा,त्रुटि
2।4।125।2।4
पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुटा/ त्रि--पुटा f. Arabian jasmine L.
