सामग्री पर जाएँ

त्रिपुरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिपुरम्, क्ली, (त्रयाणां पुराणां समाहारः । तद्धि- तार्थेति समासः । पात्रादित्वात् स्त्रीत्वाभावः ।) मयदानवनिर्म्मितं पुरत्रयम् । (यथा, महा- भारते । ३ । ४१ । ३८ । “महात्मना शङ्करेण त्रिपुरं निहतं यदा । तदैतदस्त्रं निर्म्मुक्तं येन दग्धा महासुराः ॥”) पुरा असुरा देवैर्निर्जिताः सन्तो मायिनां परमाचार्य्यं मयं शरणमाययुः । स गमनागमने अदृश्या दुर्व्वितर्क्यपरिच्छदा हैमी रौप्यायसीति तिस्रः पुरो निर्म्माय तेभ्यो ददौ ते असुरास्ताभिः पुरीभिरलक्षिताः पूर्ब्बवैरमनुस्मरन्तः सेश्वरान् त्रीन् लोकान् नाशयाञ्चक्रुस्ततः सेश्वरा लोका हरं उपासाञ्चक्रिरे । हरो मा भैष्टेति सुरानु- च्चार्य्य धनुषि शरं सन्धाय पुरेषु व्यमुञ्चत् । तैः शरैः स्पृष्टाः पुरौकसोऽसुरा व्यसवः सन्तो निपेतुः । महायोगी मयस्तानसुरानानीय त्रिपुरस्थितसिद्धामृतरसकूपेऽक्षिपत् तेऽसुरा- स्तद्रसं प्सृष्ट्वा दृढशरीराः सन्त उत्तस्थुस्तदा विष्णुर्गौर्ब्रह्मा च वत्सो भूत्वा त्रिपुरं प्रविश्य रसकूपामृतं पपौ असुरा विष्णुमायया मोहिताः सन्तो न न्यषेधन् तदा विष्णुः स्वाभिः शक्तिभिः शम्भोर्युद्धोपकरणं रथसारथिधनुर्बाणादिकं व्यधात् । ततः शम्भुः सन्नद्धो रथमास्थाय शरन्धनुषि सन्धाय मध्याह्नकाले त्रिपुरं ददाह । इति श्रीभागवतम् ॥ (त्रीणि पुराणि यस्येति विग्रहे त्रिपुरासुरे, पुं । यथा, महाभारते । ७ । २०० । ७६ । “आरुह्य स रथं दिव्यं सर्व्वदेवमयं शिवः । त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a तीर्थम् sacred to पितृस्. M. २२. ४३.

"https://sa.wiktionary.org/w/index.php?title=त्रिपुरम्&oldid=430441" इत्यस्माद् प्रतिप्राप्तम्