सामग्री पर जाएँ

त्रिमधुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिमधुः, पुं, (मधुवाता इत्यादयस्त्रयो मधुशब्दा यत्र ।) ऋग्वेदैकदेशः । (यथा, ऋग्वेदे । १ । ९० । ६ -- ८ । “मघुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्तोषधीः ॥ मधुनक्तमुतोषसो मधुमत् पार्थिवं रजः । मधु द्यौरस्तुनः पिता ॥ मधुमान्नो वनस्पतिर्मधुमा~ अस्तु सूर्य्यः । माध्वीर्गावो भवन्तु नः ॥”) मधुवातादिऋक्त्रयवेत्ता । यथा, -- “त्रिनाचिकेतस्त्रिमधुस्त्रिसुवर्णः षडङ्गवित् ॥” इति पङ्क्तिपावनवर्णने मार्कण्डेयपुराणम् । ३१ । २३ ॥ तद्व्रतञ्च । तद्व्रताचरणेन यस्तद- ध्यायी सोऽपि । इति विज्ञानेश्वरः ॥ * ॥ श्राद्धे त्रिवारमधुशब्दोच्चारणविधिर्यथा, -- “गायत्त्रीं त्रिः सकृद्बापि जपेद्ब्याहृति- पूर्ब्बिकाम् । मधुवाता इति त्र्यृचं मध्वित्येतत् त्रिकं जपेत् ॥” इति श्राद्धतत्त्वे मिताक्षराधृतपारस्करवचनम् ॥)

"https://sa.wiktionary.org/w/index.php?title=त्रिमधुः&oldid=139018" इत्यस्माद् प्रतिप्राप्तम्