त्रिमूर्त्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिमूर्त्तिः, पुं, (तिस्रो मूर्त्तयो यस्य ।) बुद्धः । इति त्रिकाण्डशेषः ॥ त्रि, ब्रह्मविष्णुशिवाख्य- मूर्त्तित्रयवान् । यथा, -- “त्रिमूर्त्तिर्यः सर्गस्थितिविलयकर्म्माणि तनुते ।” इति गङ्गेशोपाध्यायः ॥ (यथाच कुमारे । २ । ४ । “नमस्त्रिमूर्त्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ॥”)
