त्रियुग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियुगः, पुं, (त्रीणि युगानि सत्यत्रेताद्बापर- रूपाणि आविर्भावकालोऽस्य ।) विष्णुः । यथा, भागवते । ७ । ९ । ३८ । “इत्यं नृतिर्य्यगृषिदेवझषावतारै- र्लोकान् विभावयसि हंसि जगत्प्रतीपान् । धर्म्मं महापुरुष ! पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥” “एकस्तमेव इत्यादिभिरष्टभिः श्लोकैर्यदुक्तं पक्ष- पातेन रक्षणं तद्बिपक्षवधश्च सत्त्वोपाधितो न स्वत इति तदुपसंहरति इत्थमिति विभावयसि पालयसि हंसि घातयसि । कलौ तु तन्न करोषि यतस्तदा त्वं छन्नोऽभवः यतस्त्रिष्वेव युगेष्वावि- र्भावात् स एवम्भूतस्त्वं त्रियुग इति प्रसिद्धः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (तथा च तत्रैव । ३ । २४ । २६ । “स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् । विविक्त उपसंगम्य प्रणम्य समभाषत ॥” वसन्तप्रावृट्शरद्रूपकालत्रये, क्ली । यथा, वाज- सनेयसंहितायाम् । १२ । ७५ । “या ओषधीः पूर्ब्बा जाता देवेभ्यस्त्रियुगं पुरा ॥” “युगशब्दः कालवाची । त्रयाणां युगानां समा- हारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च ।” इति तद्भाष्ये महीधरः ॥ कृतत्रेताद्वापर- रूपयुगत्रयम् । इति ऋग्वेदस्य । १० । ९७ । १ । भाष्ये सायनः ॥ षडैश्वर्य्यशालिनि, त्रि । यथा, महाभारते । ३ । ८६ । ५ । “त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ॥” “त्रियुगौ धर्म्मस्य भार्य्यायां मूर्त्तिसंज्ञायां कृत- युगेऽवतीर्णौ नरनारायणौ तावेव द्बापरान्ते केशवार्ज्जुनौ इति पुराणपुरुषावेतौ नास्मदादि- वन्मानुषाविति भावः । यद्वा, त्रीणि युगानि युगलानि षडैश्वर्य्याणि भगसंज्ञानि वा षड- ङ्गानि वा ययोस्तौ त्रियुगौ ॥” इति तट्टी- कायां नीलकण्ठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियुग¦ पु॰ त्रीणि युगानि आविर्भावकालोऽस्य।

१ यज्ञपुरुषेतस्य कृतयुये आविर्भावाभावात् कलौ छन्नत्वात् वा।
“इत्थं नृतिर्य्यगृषिदेवझषावतारैर्लोकान् विभावयसि[Page3378-a+ 38] हंसि जगत् प्रतीपान्। धर्मं महापुरुष! पासि युगा-नुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्” भाग॰

७ ।

९ ।

३८
“कलौ तु तन्न करोसि यतस्तदा त्वं छन्नोऽ-भवः यतस्त्रिष्वेव युगेष्वाविर्भावात् स एवम्भूतस्त्वंत्रियुग इति प्रसिद्धः” श्रीधरस्वामी।

२ वसन्तादिकाल-त्रये।
“या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा” यजु॰

१२ ।

७५
“युगशब्दः कालवाची त्रयाणां युगानांसमाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च। वेददी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियुग/ त्रि--युग n. (= -पुरुष)3 generations( Nir. ; " spring , rainy-season , and autumn " , S3Br. vii ) RV. x , 97 , 1

त्रियुग/ त्रि--युग mfn. appearing in the first 3 युगs ( कृष्ण) MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=त्रियुग&oldid=411992" इत्यस्माद् प्रतिप्राप्तम्