त्रिलोचनाष्टमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिलोचनाष्टमी, स्त्री, (त्रिलोचनाय त्र्यम्बक- पूजायै या अष्टमी ।) गौणचान्द्रज्यैष्ठकृष्णा- ष्टमी । यथा, -- “ज्यैष्ठे मासि नृपश्रेष्ठ ! कृष्णाष्टम्यां त्रिलोचनम् । यः पूजयति देवेशमीशलोकं स गच्छति ॥” इति संवत्सरकौमुदीधृतभविष्यपुराणवचनम् ॥ अपि च । “ज्यैष्ठे मास्यसिते पक्षे अष्टम्याञ्च महेश्वरि ! । शिवार्च्चने च तल्लोकं लभते नात्र संशयः ॥” इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिलोचनाष्टमी¦ स्त्री गौणचान्द्रज्यैष्ठकृष्णाष्टम्याम्
“ज्यैष्ठे-मासि नृपश्रेष्ठ! कृष्णाष्टम्यां त्रिलोचनम्। यः पूजयतिदेवेशमीशलोकं स गच्छति” संवत्सरकौमुदीधृतभविष्य-पुराणम्।
“ज्यैष्ठे मस्यसिते पक्षे अष्टम्याञ्च महेश्वरि!। शिवार्च्चने च तल्लोकं लभते नात्र संशयः” उत्तरकामा-ख्यातन्त्रे
११ पटले।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिलोचनाष्टमी/ त्रि--लोचना f. the 8th day in the dark half of month ज्यैष्ठW.