त्रिलौही
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिलौही, स्त्री, (त्रीणि लौहानि साधनत्वेना- स्त्यस्याः । अच् । गौरादित्वात् ङीष् ।) मुद्राविशेषः । यथा, अथ मन्त्रिणां हितर्थाय त्रिलौही मुद्रा निरूप्यते । “सोमसूर्य्याग्निरूपाः स्युवेर्णा लौहत्रयं तथा । रौप्यमिन्दूः स्मृतो हेम सूर्य्यस्ताम्रो हुताशनः ॥ लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया । तैर्लौहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥ एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः । आग्नेया व्यापकाः सर्व्वे सोमसूर्य्याग्निदेवताः ॥ स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः । व्यापका दश ते कामधनधर्म्मप्रदायिनः ॥ साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः । तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्ब्बसंख्यया ॥ निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना । आवाह्य पूजयेद्देवीमुपचारैर्व्विधानतः ॥ अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः । इयं मुद्रा क्षुद्ररोगविषज्वरविनाशिनी ॥ व्यालचौरमृगादिभ्यो रक्षां कुर्य्याद्बिशेषतः । युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः ॥ मन्त्रसिद्धिकरी पुंसां चतुर्व्वर्गफलप्रदा । धारयन्मनुजो नित्यं देवतुल्यो भवेद्भुवि ॥” इति तन्त्रसारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिलौही¦ स्त्री त्रीणि लौहानि साधनत्वेनास्त्यस्याःगौरा॰ ङीष्। सुवर्णरजतताम्रपरिमाणभेदेन निर्मितेमुद्राभेदे
“अथ मन्त्रिणां हितार्थाय त्रिलौही मुद्रानिरूप्यते। सोमसूर्य्याग्निरूपाः स्थुर्वर्णा लौहत्रयंतथा। रौप्यमिन्दुः स्मृतो हेम सूर्य्यस्ताम्रोहुताशनः। लौहभागाः समुद्दिष्टाः स्वराद्यक्षर-संख्यया। तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम्। एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः। आग्नेया व्यापकाः सर्वे सोमसूर्य्याग्निदेवताः। स्वराःषोडश विख्याताः स्पर्शाः स्युः पञ्चविंशतिः। व्यापका दशते कामधनधर्मप्रदायिनः। साष्टं सहस्रं संजप्य स्पृष्ट्वातां जुहुयात्ततः। तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्व-संख्यया। निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना। आवाह्य पूजयेद्देवीमुपचारैर्विधानतः। अभि-षिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः। इयं मुद्राक्षुद्ररोगविषमज्वरनाशिनी। व्यालचौरमृगादिभ्योरक्षां कुर्य्याद्विशेषतः। युद्धे विजयमाप्नोति धारयन्मनुजेश्वरः। मन्त्रसिद्धिकरी पुंसां चतुर्वर्गफलप्रदा। धारयन् मनुजो नित्यं देवतुल्यो भवेद्भुवि” तन्त्रसा॰।
