त्रिवर्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवर्गः, पुं, (त्रयानां वर्गः समूहः ।) धर्म्म- कामार्थाः । इत्यमरः । २ । ७ । ५८ ॥ (यथा, महाभारते । १ । १८१ । ३ । “यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति । नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥”) त्रिफला । त्रिकटु । (यथा, सुश्रुते उत्तरतन्त्रे ४१ अध्याये । “भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरञ्च कृत्स्नम् ॥”) वृद्धिस्थानक्षयाः । (यथा, महाभारते । १२ । ६९ । ६९ । “त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु । क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गः परमस्तथा ॥”) सत्त्वरजस्तमांसि । इति मेदिनी । गे, ३७ ॥ सुनीतिः । इति शब्दरत्नावली ॥
