त्रिविक्रमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिविक्रमः, पुं, (त्रीन् लोकान् विशेषेण क्रामति व्याप्नोतीति । वि + क्रमं + अच् । यद्बा, त्रिषु लोकेषु बलिवञ्चनार्थं भूव्योमस्वर्गेषु क्रमः पाद- न्यासो यस्य ।) विष्णुः । इत्यमरः । १ । १ । २० ॥ (यथा, महाभारते । १३ । १४९ । ६९ । “आनन्दो नन्दनो नन्दः सत्यधर्म्मस्त्रिविक्रमः ॥” “त्रयो विक्रमास्त्रिषु लोकेषु यस्य स त्रिविक्रमः । ‘त्रीणि पदानि विचक्रमे’ इति श्रुतेः । ‘त्रिरित्येवं त्रयो लोकाः कीर्त्तिता मुनिसत्तमैः । विक्रामंस्तु ततः सर्व्वांस्त्रिविक्रमोऽसि जनार्द्दन ! ।’ इति हरिवंशे ॥” इति शाङ्करभाष्यम् ॥)
