त्रिवृत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत्, स्त्री, (त्रीनवयवान् वृणोतीति । वृ + क्विप् तुक् च ।) लताविशेषः । तेउडी इति भाषा । तत्पर्य्यायः । सर्व्वानुभूतिः २ सुवहा ३ त्रिपुटा ४ त्रिवृता ५ त्रिभण्डी ६ रेचनी ७ । इत्यमरः । २ । ४ । १०८ ॥ सवहा ८ सरणा ९ सरसा १० त्रिपुटी ११ रोचनी १२ । एते त्रिवृता सामान्ये शुक्लत्रिवृतायामिति केचित् । इति भरतः ॥ मालविका १३ मसूरी १४ श्यामा १५ अर्द्धचन्द्रा १६ विदला १७ सुषेणी १८ कालिङ्गिकम् १९ कालमेषी २० काली २१ त्रिवेला २२ त्रिवृत्तिका २३ । इति राज- निर्घण्टः ॥ श्वेता २४ सारा २५ । इति शब्द- रत्नावली ॥ कृष्णायाः पर्य्यायः । श्यामा १ पालिन्दी २ मुषेणिका ३ काला ४ मसूरविदला ५ अर्द्ध- चन्द्रा ६ कालमेषिका ७ । इत्यमरः । २ । ४ । १०८ ॥ पालिन्धी ८ कालमेशिका ९ । इति भरतः ॥ श्वेतायाः पर्य्यायः । त्रिवृत् १ वृकाक्षी २ सुवहा ३ त्रिभण्डी ४ त्रिपुटा ५ ॥ अरु- णायाः पर्य्यायः । व्याघ्रादनी १ कुटरुणा २ निःसृता ३ त्रिवृता ४ अरुणा ५ । इति रत्न- माला ॥ सामान्यत्रिवृतागुणाः । कटुत्वम् । उष्णत्वम् । कृमिश्लेष्मोदरार्त्तिकुष्ठकण्डुव्रणनाशि- त्वम् । विरेचने प्रशस्तत्वञ्च । इति राज- निर्घण्टः ॥ अरुणवर्णत्रिवृद्गुणाः । स्वादु- त्वम् । कषायत्वम् । मृदुत्वम् । रेचनत्वम् । रूक्षत्वम् । कटुत्वम् । दोषपाके पित्तकफापह- त्वञ्च ॥ अस्याश्चाल्पान्तरगुणा विज्ञेया त्रिवृता सिता । इति राजवल्लभः ॥ श्वेतत्रिवृद्गुणाः । विरेचनत्वम् । स्वादुत्वम् । उष्णत्वम् । वायुकारित्वम् । रूक्षत्वम् । पित्त- ज्वरश्लेष्मपित्तशोफोदरापहत्वञ्च ॥ कृष्णत्रिवृता- गुणाः । श्वेताद्धीनगुणत्वम् । तीव्रत्वम् । विरे- चनत्वम् । मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण- कारित्वञ्च । इति भावप्रकाशः ॥ (त्रिभिर्युक्ते, त्रि । यथा, ऋग्वेदे । १ । ३४ । ९ । “क्व त्री चक्रा त्रिवृतो रथस्य ॥” यथा च मनुः । २ । ४२ । “मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्या विप्रस्य मेखला ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत् स्त्री।
शुक्लत्रिधारा
समानार्थक:सर्वानुभूति,सरला,त्रिपुटा,त्रिवृता,त्रिवृत्,त्रिभण्डी,रोचनी
2।4।108।1।5
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत्. त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत्(ता)¦ पु॰ त्रीन् अवयवान् वृणोति वृ--क्विप् त्रिभिरव-यवैर्वृता वा।
१ (तेओडि) औषधिभेदे, अमरः
“श्वेतात्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत्। रूक्षापित्तज्वरश्लेष्मपित्तशोथोदरापहा। श्वेतकृष्णपभेदेनद्विविधा त्रिवृदुच्यते। श्यामा त्रिवृत्ततो हीनगुणातीव्रा विरेचिका। मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण-कारिणी” भावप्र॰। वर्तनं वृत् त्रिः तिस्रः वृतो यत्र। एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते च वृत्तिःतन्त्रोच्चारणात्।
२ त्रिधात्रिगुणिते त्रि॰।
“विप्रस्योर्द्धवृतंत्रिवृत्” इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वा-त्तथार्थता। त्रिर्वर्त्तते वृत--क्विप्। मिश्रितेषु
३ तेजोजलान्नेषुच।
“तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” छा॰ उ॰
४ त्रिगुणिते
“यजेत वाश्वमेधेन स्वर्जिता गोषयेन वा। अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” मनुः। त्रिभिरृग्यजुःसामभिर्वर्त्तते वृत--कर्तरि क्विप्।
५ यज्ञेपु॰।
“यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः” भा॰ शा॰
४७ अ॰।
“त्रिवृत् यज्ञः शिरोऽस्य” नीलक॰त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम्।
६ ऋग्विशेषाणां नवके। यथोक्तं सामसंहिताभाष्ये(
“लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः। उभौविध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः।
“त्रिवृद्बहिष्प-वमानम्” इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धो-ऽर्थः वाक्यशेषादृक्--त्रयात्मकेषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मक--स्तोत्र--निष्पादन--क्षमाणाम्
“उपास्वै गा-यता नरः (उ
१ प्र॰
१२ ,
३ सू॰) इत्यादीनामृचां नव-क{??} र्थः तत्र धर्म निर्णये वेदस्य प्रबलत्वेऽपि पद--पदार्थ-निर्णये लोकवेदयोः समान--बलवत्त्वात् उभावर्थौ विक-ल्पेन ग्रहीतव्यौ, इति चेत्--मैवम्, लौकिकार्थ--स्वी-कार पक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थबाद--वाक्येस्तोत्रियाणामृचां मवकम्, इत्येवं विध्यर्थवादयोर्वैयधि-करण्यादेकवाक्यत्वं न स्यात्, अतः एकवाक्यत्वाय स्तो-त्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत्¦ mfn. (-वृत्) Triple, tri-form, three-fold. m. (-वृत्)
1. A plant of valuable purgative properties, commonly called Teori, and distin- guished into two species, white and black, (Convolvulus turpe- thum.)
2. Combining any thing by three.
3. A triple cord, a girdle, &c. of three strings.
4. A kind of sacrifice. E. त्रि three, (three seed vessels,) वृ to cherish, affix क्विप्, and तुक् added: also with टाप् added त्रिवृता f. (-ता।)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत्/ त्रि--वृत् mfn. threefold , triple , triform , consisting of 3 parts or folds etc. RV. etc.
त्रिवृत्/ त्रि--वृत् mfn. connected with the त्रि-वृत्स्तोमS3Br. xiii Ka1tyS3r. S3a1n3khS3r.
त्रिवृत्/ त्रि--वृत् mfn. ( n. pl. -वृन्ति) A1s3vS3r.
त्रिवृत्/ त्रि--वृत् m. (with or without स्तोम)a threefold स्तोम(in which first the three 1st verses of each तृचof RV. ix , II are sung together , then the 2nd verses , and lastly the 3rd) VS. etc.
त्रिवृत्/ त्रि--वृत् m. a triple cord , S3a1n3khGr2. Mn. iii , 43
त्रिवृत्/ त्रि--वृत् m. an amulet of 3 strings AV. v , 28
त्रिवृत्/ त्रि--वृत् m. N. of a व्यास(See. -वृष)
त्रिवृत्/ त्रि--वृत् f. = ताSus3r. (generally written तृ-व्)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a साम; फलकम्:F1: वा. 9. ४८.फलकम्:/F created from ब्रह्मा's face. फलकम्:F2: Br. II. 8. ५०.फलकम्:/F
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिवृत् वि.
नौ ऋचाओं वाला, शा.श्रौ.सू. 9.21.1 (द्वार से बाहर का साम और ‘सन्धिसाम’ त्रिवृद् बहिष्पवमानः सन्धिसाम च); तृचों का प्रथम चरण बिना पुनरावृत्ति के गाया जाता है, उसके बाद द्वितीय एवं तदनन्तर तृतीय। इसे ‘उद्यती’ कहते हैं, द्रष्टव्य-‘परिवर्तिनी’ अ ब स, अ ब स, अ ब स एवं कुलायिनी, अ ब स, ब स अ एवं स अ ब।
