सामग्री पर जाएँ

त्रिवृत्करण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिवृत्करणम्, क्ली, (त्रिवृतस्त्र्यवयवस्य करणं मिश्रीकरणम् ।) क्षित्यप्तेजसां मिश्रीकरणम् । यथा, “तेजोजलक्षितयः प्रत्येकं द्वेधा विभज्य एकस्मिन्नर्द्धे स्वेतरयोरर्द्धार्द्धं प्रक्षिपेत् ।” इति मोक्षधर्म्मटीकायां नीलकण्ठः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिवृत्करण¦ न॰

६ त॰। तेजो जसान्नानां त्र्यात्मककरणेतत्प्रकारुश्च छा॰ उ॰ भाष्ये दर्शितो यथा(
“ताश्चां त्रिवृतं त्रिवृतमैकैकां करवाणीति सेयं देवते-[Page3382-b+ 38] मास्तिस्रौ देवता अनेनैव जीवेनात्मनानुपविश्य नामरूपेव्याकरोत्। तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथानु खलु सोम्ये मास्तिस्रो देवतास्रिघृत्त्रिवृदेकैका भवतितन्मे विजानहीति। यदग्ने रोहितं रूपं तेजसस्तद्रूपंयच्छुक्लं तदपां, यक्तृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्। यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां,यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचार-म्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्। यच्चन्द्रमसो रोहितं रूपं, तेजसस्तद्रूपं यच्छुक्लं तदपां,यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्व वाचारम्भणं विकारोनामधेयं त्रीणि रूपाणीत्येव सत्यम्। यद्विद्युतोरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णंतदन्नस्यापागाद्धिद्युतो विद्युत्त्वं वाचारम्भणं विकारोनामधेयं त्रीणि रूपाणीत्येव सत्यम्। (
“सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे वीजभूतेऽव्याकृते गामरूपे व्याकरवाणीतीक्षित्वा तासाञ्च तिसृणांदेवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि एकैकस्याःत्रिवित्करणे एकैकस्याः प्राधान्यं द्वयोद्वयोर्गुणभावोऽन्यथा हि रज्वा इवैकमेव त्रिवृत्करणं स्यात्। न तुतिसृणां पृथक् त्रिवृत्करणमिति। एवं हि तेजोबन्नानांपृथङ्{??}मप्रत्ययलामः स्यात्तेज इदमिमा आपोऽन्नमिद-मिति च। प्रथङ्नामप्रत्ययलाभे देवातानां सम्यग्व्यव-हारस्य प्रसिद्धिः प्रयोजनं स्यात्। एवमीक्षित्वा सेयं देबतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्य्यबिम्ब-वदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां चपिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौ-नामायमिदरूप इति तासाञ्च देवतानां गुणप्रधानभावेनत्रिवृतं त्रिवृतमेकैकामकरोत् कृतवती देवता। तिष्ठतु ताव-द्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां, तोजोबन्न-मयत्वेन त्रिधात्वं यथा तु खलु बहिरिमाःपिण्डेभ्यस्त्रिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे ममनिगदतो विजानीहि विस्पष्टमवधारयोदाहरणतः। यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवदाहरणमुच्यते। उदाहरणं वामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थसुदाद्रियतइति। तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपंप्रसिद्ध्वं लोके तदत्रिवृत्कृतस्य तेजसो रूपभिति विद्धि। तथा च यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम्[Page3383-a+ 38] यक्तृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृ-ताया इति विद्धि। तत्रैवं सति रूपत्रयव्यतिरेकेणाग्नि-रिति यन्मन्यमे त्वं तस्याग्नेरग्नित्वमिदानीमपागादप-गतम्। प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासी-त्तेजसाग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः। यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्त्तेतेतद्विवेकविज्ञातुस्तद्वत्। ननु किमत्र बुद्धिशब्दकल्पनयाक्रियते प्राग्रूपत्रयविवेककरणादग्निरेवासीत्तदग्नेरग्नित्वंरोहितादिरूपविवेककरणादपागादिति युक्तम्। यथातन्त्वपकर्षणे पटाभावः। मैवं बुद्धिशब्दमात्रमेव ह्यग्निर्यत आह वाचारम्भनमग्निर्नाम विकारो नामधेयंनाममात्रमित्यर्थोऽतोऽग्निबुद्धिरपि मृषैव। तर्हि किं तत्सत्यं? त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रय-व्यतिरेकेण सत्यमस्तीत्यवधारणार्थः। तथा यदादित्यस्ययच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु यथा नुखलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवतितन्मे विजानीहीत्युक्त्वा तेजस एव चतुर्भिरप्युदाहर्णै-रग्न्यादिभिस्त्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणंदर्शितंत्रिवृत्करणे। नैष दोषः। अबन्नावषयाण्यप्युदाहर-णान्येवमेव चद्रष्टव्यानोति मन्यते श्रुतिः। तेजस उदा-हरणमुपलब्ध्यर्थम्, रूपवत्त्वात् स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् न हि गन्ध-रसौ तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेनदर्शयितुमशक्यत्वात्। यदि सर्व्वं जगत्त्रिवृत्कृतमित्य-ग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागा-ज्जगतो जगत्त्वम्। तथाऽन्नस्यापि अप्शुङ्गत्वादापइत्येव सत्यं वाचारम्भणमात्रमन्नम्। तथापामपि तेजः-शुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम्। तेजसोऽपिसच्छुङ्गत्वाद्वाचारम्भणत्वं, सदित्येव सत्यमित्येषोऽर्थोविवक्षितः। ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजःप्रभृति-ष्वनन्तर्भूतत्वादविशिष्येते। एवं गन्धरसशब्दस्पर्शाश्चा-वशिष्टा इति। कथं? सतो विज्ञानेन सर्व्वमन्यदविज्ञातंभवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम्। नैष दोषो रूपव-द्द्रव्ये सर्व्वस्य दर्शनात्। कथं, तेजसि तावद्रूपवति शब्द-स्पर्शयोरप्युपलम्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोःसद्भावोऽनुमीयते। तथाबन्नयो रूपवतो रसगन्धान्त-[Page3383-b+ 38] र्भाव इति। रूपवतां त्रयाणां तेजोऽबन्नानां त्रिवृत्करणप्रदर्शनेन सर्व्वं तदन्तर्भूतं सद्विकारत्वात्त्रीण्येव रूपाणिविज्ञातं मन्यते श्रुतिः। न हि मर्त्तं रूपवत् द्रव्यंप्रत्याख्याय वाय्वाकाशयोस्तद्गु णयोर्गन्धरसयोर्वा ग्रहण-मस्ति। अथ वा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव-मन्यते श्रुतिः यथा तु त्रिवृत्कृते त्रीण्येव रूपाणीत्येवसत्यं तथा पञ्चीकरणेऽपि समानी न्याय इत्यतः सर्व्वस्यसद्विकारत्वात्सतो विज्ञानेन सर्वमिदं विज्ञातं स्यात्सदेक-मेवाद्वितीयं सत्यमिति सिद्धमेव भवति” भाष्यम्। क्षित्यादित्रयाणां प्रत्येकं द्वेधा विभागे द्वितीयार्द्धस्यपुन-र्द्वेधा विभागे च एकैकस्मित् स्वस्वेतरद्वितीयांशार्द्धयो-जनरूपं पञ्चीकरणवत् त्रिवृत्करणम्
“द्विधा वि-धाय चैकैकं द्विधा च प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्यो-जनात् त्र्यात्मकाश्च ते” इत्युक्तरीत्या कल्प्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिवृत्करण¦ n. (-णं) Combining earth, water, and fire, in the proportion of half of one with a quarter of each of the others. E. त्रिवृत्, and करण making.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिवृत्करण/ त्रि--वृत्---करण n. making threefold , Veda7ntas. 116 ( ChUp. vi , 3 , 2 f. )

"https://sa.wiktionary.org/w/index.php?title=त्रिवृत्करण&oldid=412392" इत्यस्माद् प्रतिप्राप्तम्