सामग्री पर जाएँ

त्रिशङ्कुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिशङ्कुः, पुं, (त्रीणि शङ्कूनि व्यतिक्रमाणि यस्य ।) सूर्य्यवंशीयराजविशेषः । स तु इक्ष्वाकुवंशोद्भव- पृथुराजपुत्त्रः । (अस्य नामनिरुक्तिर्यथा, हरि- वंशे । १३ । १९ । “एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महायशाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥”) एष वशिष्ठमाह अहं सशरीरेण स्वर्गं गन्तुं यजेयं वशिष्ठ एतदशक्यमित्याह ततो राजा तस्य पुत्त्रानुवाच सशरीरो यज्ञेन स्वर्गं यथा- प्नुयां तथा कुरुत यदि भवद्भिः परित्यक्तस्तदान्यं गुरुमुपासिष्ये वशिष्ठपुत्त्रास्तच्छ्रुत्वा राजानमूचु- र्वशिष्ठो भगवान् अशक्यमिति यत् प्राह तद- स्माभिः कथं शक्यम् । राजोवाच यष्टुमन्यां गतिं गमिष्यामि तच्छ्रुत्वा ऋषिपुत्त्रा राजानं शेपुः श्वश्चाण्डालो भविष्यसि । ततस्तस्यां रात्र्यामती- तायां स चाण्डालदर्शनो भूत्वा विश्वामित्रं शरण- माययौ विश्वामित्रस्तं स्वीयद्रव्येण याजयामास तस्मिन् यज्ञे देवा भागार्थं नागच्छन् ततो विश्वामित्रः क्रोधात् राजानमब्रवीत् मया बाल्यात् प्रभृति यत्तपः कृतं तेन त्वं दिवं व्रज तदा राजा सशरीरो दिवं ययौ । तदा शक्रस्तमु- वाच त्रिशङ्को ! त्वं भूमौ पत ततोऽवाक्शिराः पतन् राजा पाहीति विश्वामित्रमुवाच विश्वा- मित्रस्तिष्ठेति तमुक्त्वा स्वर्गदक्षिणमार्गेऽपरान् सप्तर्षीन् सृष्ट्वापरं नक्षत्रचक्रं स्रष्टुमुपचक्रमे देवाः सम्भ्रान्ता ऋषिमूचुरयं सशरीरः स्वर्गं गन्तुं नार्हति विश्वामित्रस्तानुवाच अहमस्य स्वर्गा- रोहणं प्रतिज्ञाय कथमनृतं करिष्यामि अतो यावल्लोकाः स्थास्यन्ति तावदमूनि नक्षत्राण्य- त्रैव तिष्ठन्तु त्रिशङ्कुरप्यवाक्शिरास्तिष्ठतु । इति रामायणम् ॥ * ॥ विडालः । शलभः । इति मेदिनी । के, १०१ ॥ चातकपक्षी । इति शब्द- रत्नावली ॥ खद्योतः । इति शब्दमाला ॥ (महा- देवः । यथा, महाभारते । १३ । १७ । १०२ । “अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रिशङ्कुः&oldid=139076" इत्यस्माद् प्रतिप्राप्तम्