त्रिशिराः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशिराः, [स्] पुं, (त्रीणि शिरांसि मस्तकानि यस्येति ।) कुवेरः । इति हेमचन्द्रः । २ । १०३ ॥ ज्वरः । यथा, -- “त्रिशिरास्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।” इति श्रीभागवतम् ॥ रावणपुत्त्रविशेषः । (यथा, रामायणे । ६ । १२५ । ९ । “अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः । त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥”) खरसेनापतिः । इति रामायणम् ॥ (यथा, रघुवंशे । १२ । ४७ । “तं शरैःप्रतिजग्राह खरत्रिशिरसौ च सः ॥” स्वनामख्यातस्त्वष्टुः प्रजापतेः पुत्त्रः । यथा, महाभारते । ५ । ९ । २ । “त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । सपुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥” असुरविशेषः । यथा, तत्रैव । ९ । ३१ । १२ । “वातापिरिल्ललश्चैव त्रिशिराश्च तथा विभो ! ॥” शिखात्रयविशिष्टे, त्रि । यथा, तत्रैव । २३ । १४७ । ५४ । “त्रिशिरास्तस्य देवस्य शातकुम्भमयो द्रुमः । ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥”)
