त्रिशूली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिशूली, [न्] पुं, (त्रिशूलमस्त्रमस्त्यस्येति । त्रिशूल + इनिः ।) शिवः । यथा, -- “त्र्यक्षोऽभेद्यस्त्रिशूली च वृषकेतुर्म्महाबलः ॥” इति स्कन्दपुराणे नीलकण्ठस्तवः ॥ (त्रिशूलघारिणि, त्रि । स्त्रियां ङीप् । यथा, हरिवंशे । १६४ । ११ । “त्रिशूलिनीं नमस्यामि महिषासुरधातिनीम् ॥”)
