त्रिसन्धि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिसन्धिः, स्त्री, (त्रयः सन्धयो विकाशकाला यस्य ।) पुष्पविशेषः । तत्पर्य्यायः । सान्ध्यकुसुमा २ सन्धिवल्ली ३ सदाफला ४ त्रिसन्ध्यकुसुमा ५ कान्ता ६ सुकुमारा ७ सन्धिजा ८ । सा त्रिविधा । रक्ता १ सिता २ असिता च ३ । अस्या गुणाः । कफकासहरत्वम् । रुच्यत्वम् । त्रिदोषशमनत्वञ्च । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिसन्धि¦ स्त्री त्रयः सन्धयोऽन्तरकाला विकाशेऽस्याः। (फागनिया)
१ पुष्पभेदे राजनि॰। सा त्रिविधा मिता-ऽमिता रक्ता च। समा॰ द्वि॰।
२ पूर्वापरमध्यसन्धौ न॰।