त्रिसन्ध्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिसन्ध्यम्, क्ली, (तिसृणां सन्ध्यानां समाहारः । आबन्तोवेति पाक्षिकी क्लीवता ।) पूर्ब्बाह्ण- मध्याह्नापराह्णकालः । इत्यमरः । १ । ४ । ३ ॥ अस्य रूपान्तरम् । त्रिसन्ध्यी । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । ३ । ८२ । २१ । “सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ! । आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । गन्धर्व्वाप्सरसश्चैव नित्यं सन्निहिता विभो ! ॥”)
