त्रिस्पृशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिस्पृशा¦ स्त्री त्रीणि चान्द्रदिनानि एकस्मिन् सावनेदिने स्पृशति स्पृश--क। एकादशीभेदे
“यदापूर्बदिने दशमी परदिने चैकादशी स्वल्पा ततो द्वादशीरात्रिशेषे त्रयोदशी सा चैकादशी त्रिस्पृशा” रघु॰
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। तत्रक्रतुशतं पुण्यं त्रयोदश्यान्तु पारयेत्” एका॰ त॰ धृतवचनम्।
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। त्रिस्पृशा नाम सा ज्ञेया ब्रह्महत्यां व्यपोहति” संवर्त्त-वचनम्। अष्टसु महाद्वादशीषु वासरत्रयस्पर्शिन्यां

३ द्वादश्याञ्च द्वादशीशब्दे दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=त्रिस्पृशा&oldid=500096" इत्यस्माद् प्रतिप्राप्तम्