सामग्री पर जाएँ

त्रुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रुट, क ङ छिदि । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-दिवां-तुदां-परं-अवयव- द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।) द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य, त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा- दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि, त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि । यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा- नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ- स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः । इति दुर्गादासः ॥

त्रुट, यशि छिदि । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-दिवां-तुदां-परं-अवयव- द्बिधाभावमात्रे अकं-छेदनमात्रे सकं-सेट् ।) द्बौ दन्त्यवर्गप्रथमादी । क ङ, त्रोटयते । य, त्रुट्यति त्रोटिष्यति । तुदाद्यन्तर्गणस्यैव कुटा- दित्वमिति । दिवादिपक्षे न कुटादित्वम् । शि, त्रुटति अत्रुटीत् । शेषस्तु विदीर्णभावेऽपि । यथा, त्रुट्यद्भीमधनुःकठोरनिनद इति महा- नाटकम् । मयूग्वनखरत्रुटत्तिमिरकुम्भिकुम्भ- स्थले । क्वचिल्लूनीभावेऽपि यथा । आवृणुते यदि वक्षस्त्रुट्यति वासस्तदा जघने इत्युद्भटः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रुट¦ छेदने वा दिवा॰ पक्षे तुदा॰ कु॰ पर॰ अक॰ सेट्। त्रुट्यतित्रुटति अत्रु(त्रो) टीत्। तुत्रोट। छेदश्चात्र अबयवद्विधा-भाव मात्रम्
“यावन्मे दन्ता न त्रुट्यन्ति” हितो॰
“त्रुटितंपयोधरतटे हारं पुनर्योजय” सा॰ द॰।
“त्रुटित इवमुक्तामणिसरः” उत्तर॰। वि + विरुजीकरणे सक॰।
“कण्टकैरेना विरुजेयुः” कात्या॰श्रौ॰

२३ ।

३ ।

२२ ।
“विरुजेयुः वित्रुट्येयुः” स॰ व्याख्या।

त्रुट¦ छेदने चुरा॰ आ॰ सक॰ सेट्। त्रोटयते अतुत्रुटत।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रुट¦ r. 4th cl. (त्रुट्यति) r. 6th cl. (त्रुटति) and 10th cl. (त्रोटयते) To cut, literally or metaphorically; to cut, (wood, &c.) to cut or solve, (difficulties, doubts, &c.) दिवा० तुदा० प० अक० सेट् | चुरा० आत्म० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=त्रुट&oldid=412986" इत्यस्माद् प्रतिप्राप्तम्