त्रेतायुगम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रेतायुगम्, क्ली, (त्रेतैव युगम् ।) द्बितीययुगम् । तस्योत्पत्त्यादि यथा, -- “कार्त्तिकशुक्लनवम्यां सोमवारे त्रेतायुगोत्पत्तिः । तत्र अवतारत्रयम् । वामनपरशुरामंश्रीराम- चन्द्राः । पुण्यं त्रिपादम् । पापमेकपादम् । पुष्करनामकं तीर्थम् । साग्निको ब्राह्मणः । अस्थिगताः प्राणाः । चतुर्द्दशहस्तपरिमितो मानवदेहः । दशसहस्रवर्षं परमायुः । व्यव- हार्य्यं रौप्यपात्रम् । तद्युगाब्दाः १२९६००० । तत्र राजानः सूर्य्यवंशीयबाहुकसगरांशुमदस- मञ्जसदिलीपभगीरथाजदशरथश्रीरामचन्द्रकुशी- लवा एते चक्रवर्त्तिनः । तल्लक्षणम् । दानधर्म्मरता नित्यं तपस्या तीर्थदर्शनम् । अग्निहोत्रपरा लोका राजानो यज्ञकारिणः ॥ तत्र तारकब्रह्मनाम । रामनारायणानन्त मुकुन्द मधुसूदन । कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ! ॥” इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥
