त्रैविद्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्यः, पुं, (ऋग्वेदयजुर्व्वेदसामवेदरूपास्त्रिस्रो विद्या यस्येति त्रिविद्यस्ततः स्वार्थ अण् । यद्बा, तिसो विद्या अधीते वेद वा । “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।) त्रिवेदज्ञः । त्रिविद्या- वेत्ता । यथा । मनुः । १२ । १११ । “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” (व्रतविशेषे, क्ली । यथा, मनुः । २ । २८ । “स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥” “त्रैविद्याख्येन च व्रतेन ।” इति तट्टीकायां कुल्लूकभट्टः ॥ वेदत्रयप्रतिपाद्ये, त्रि । यथा, भागवते । ६ । २ । २४ । “धर्म्मं भागवतं शुद्धं त्रैवेद्यञ्च गुणाश्रयम् ॥” “त्रैवेद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं यमदूतानां धर्म्मम् ।” इति तट्टीकायां स्वामी ॥)

"https://sa.wiktionary.org/w/index.php?title=त्रैविद्यः&oldid=139155" इत्यस्माद् प्रतिप्राप्तम्