सामग्री पर जाएँ

त्र्यक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यक्षः, पुं, (त्रीणि अक्षीणि नेत्राणि यस्य । ततः समासान्तषप्रत्ययः ।) शिवः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । १०६ । ११ । “आससाद महात्मानं त्र्यक्षं त्रिपुरमर्द्दनम् ॥” दैत्यविशेषः । यथा, भागवते । ७ । २ । ४ । “भो भो दानवदैतेया द्विमूर्द्धंस्त्र्यक्ष ! शम्बर ! । शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल ! ॥” नेत्रत्रयविशिष्टे, त्रि । यथा, महाभारते । २ । ४३ । १ । “चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्र्यक्षः&oldid=139166" इत्यस्माद् प्रतिप्राप्तम्