सामग्री पर जाएँ

त्र्यम्बकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यम्बकः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि अम्ब- कानि नेत्राणि यस्य । शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा, ऋग्वेदे । ७ । ५९ । १२ । “त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ॥” “त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकः पिता ।” इति ऋग्वेदभाष्ये सायनः ।) एकादशरुद्राणामन्य- तमः । यथा, मात्स्ये । ५ । २९ -- ३० । “अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादशगणेश्वराः ॥”) शिवांशचन्द्रशेखरनामकपौष्यराजपुत्त्रः । यथा, “एवं तिसृणामम्बानां गर्भे जातो यतो हरः । अतस्त्यम्बकनामाभूत् प्रथितो लोकदेवयोः ॥ स राजपुत्त्रः कौमारावस्थां प्राप यदा तदा । सर्व्वशास्त्रार्थतत्त्वज्ञो जिष्णोस्तुल्यो बभूव ह ॥ बले वीर्य्ये प्रहरणे शास्त्रे शीले च तत्समः । नान्योऽभून्नृपशार्दूल ! नो वा भूमौ भविष्यति ॥ अभिषिच्याथ तं राजा कुमारं बलवत्तरम् । दशपञ्चैकवर्षीयं सर्व्वराजगुणैर्यतम् ॥ तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश ह । वृद्धोचितक्रियां कर्त्तुं राजा परमधार्म्मिकः ॥ गते पितरि राजा स वनवासं महाबलः । सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः ॥ सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः । अमरैरिव देवेन्द्रो विजहार श्रिया युतः ॥ एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्व्वृतिम् । ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ॥ दृषद्बतीनदीतीरे राजा भूत्वा मुमोद ह ॥” इति कालिकापुराणे ४६ अध्यायः ॥ * ॥ अन्यत् चन्द्रशेखरशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=त्र्यम्बकः&oldid=139176" इत्यस्माद् प्रतिप्राप्तम्