सामग्री पर जाएँ

त्र्यव्दस्पृश्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यव्दस्पृश्¦ पु॰ त्र्यब्दं जैववर्षत्रयं स्पृशति स्पृश क्विन् जैव-वर्षत्रययृक्ते लुप्तसंवत्सरे सौरवर्षभेदे।
“एकस्मिन् रविवर्षेसौरवर्षद्वयावसानं चेत्। त्र्यव्दस्पृगेवमेनं र्विलुप्तवत्सरंप्राहुः” यशोधरेजतन्त्रम्।
“गुरुवर्षयुग्मर्वत्समा गदिता सामन् मुप्तसंज्ञिता” ज्योतिर्विदाभरणम्। इति वाचस्पत्ये तकारादिशब्दार्थतङ्कलनम्। [Page3403-b+ 38]( थकारः तवर्गीयद्वितीयवर्ण्णो व्यञ्जनवर्णविशेषः अस्यो-च्चारणस्थानम् दन्तमूलं तस्वीच्चारणे दन्तमूलेन सहजिह्वाग्रस्यस्पर्शः आभ्यन्तरप्रयत्नः, अतएवास्य स्पर्शवर्णता। बाह्यप्रयत्नास्तु विवारश्वासाघीषामहाप्राणश्च। अस्यवाचकशब्दा वर्णाभिधाने उक्ता यथा( थस्त्रिवासी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः। शिली शिरसिजो दन्ती भद्रकाली शिलोच्चयः। कृष्णोबुद्धिर्विकर्णा च दक्षिणाशाधिपोऽमरः। वरदा भोगदाकेशो वामजङ्घाऽलसोऽनलः। नोज्जयिनी पृथुर्गुह्यःशरच्चन्द्रो विदारकः”। मातृकान्यासे अस्य वामजङ्घायांन्यासः। अस्याधिष्ठातृदेवीध्ये यरूपं यथा
“नीलवर्णांत्रिनयनां षड्भुजां वरदां पराम्। पीतवस्त्रपरीधानांसदा सिद्धिप्रदायिनीम्। एवं ध्यात्वा थकारन्तु तन्मन्त्रदशधा जपेत्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। तरुणादित्यशङ्काशं थकारं प्रणमाम्यहम्” अस्यस्वरूपं यथा
“थकारं चञ्चलापाङ्गि! कुण्डली मोक्ष-रूपिणी। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। तरुणादित्य-शङ्काशं जकारं प्रणमाम्यहम्” कामधेनुतन्त्रम्। का-व्यादौ अस्यं प्राक्प्रयोगे युद्धं फलम्
“थस्तु युद्धम्” वृ॰ र॰ टीको क्तेः।

"https://sa.wiktionary.org/w/index.php?title=त्र्यव्दस्पृश्&oldid=413715" इत्यस्माद् प्रतिप्राप्तम्