सामग्री पर जाएँ

त्र्यहैहिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यहैहिकः, त्रि, (ईहायां चेष्टायां भवमैहिकं घनम् । “तत्र भवः ।” ४ । ३ । ५३ । इति ठञ् । त्र्यहे दिनत्रये पर्य्याप्तं ऐहिकं धनं यस्य ।) दिनत्रयनिर्व्वाहोचितधनयुक्तः । यथा, “कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । त्र्यहैहिको षापि भवेदश्वस्तनिक एव वा ॥” इति मानवे । ४ । ७ ॥ “कुशूलधान्यक इति । कुशूलो व्रीह्यागारं स्यादित्याभिधानिकाः । इष्टकादिनिर्म्मितागार- धान्यसञ्चयो भवेत् । अत्र कालविशेषापेक्षायाम् । यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ इति मनूक्त एव कालो ग्राह्यः । तेन नित्य- नैमित्तिकधर्म्मकृत्यपोव्यवर्गसहितस्य गृहिणो यावता धान्यादिधनेन वर्षत्रयं समथिकं वा निर्व्वाहो भवति तावद्धनः कुशूलधान्यक उच्यते । वषनिर्व्वाहोचितधान्यादिधनः कुम्भी- धान्यः । प्राक् सौमिकीः क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेदिति याज्ञ्यवल्क्येन गृह- स्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् । मनुरपि यदा वानप्रस्थस्यैव समानिचय एव वेत्यनेन समासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः संवत्सरसञ्चयः । मेधा- तिथिस्तु । यावता धान्यादिधनेन बहुभृत्य- दारादिमतस्त्रिसंवत्सरस्थितिर्भवति तावत् सुव- र्णादिधनवानपि कुशूलधान्यक इत्यभिधाय कुम्भी उष्ट्रिका षाण्माषिकधान्यादिनिचयः कुम्भीधान्यक इति व्याख्यातवान् । गोविन्द- राजस्तु कुशूलधान्यक इत्येतद्व्याचक्ष्य कोष्ठ- प्रमाणधान्यसञ्चयो वा स्यात् द्बादशाह- मात्रपर्य्याप्तधनः । कुम्भीधान्यक इत्येतद्ब्याचष्टे उष्ट्रिकाप्रमाणधान्यादिसञ्चयो वा षडहमात्र- पर्य्याप्तधनः । द्वादशाहं कुशूलेन वृत्तिः कुम्भ्या दिनानि षट् । इमाममूलां गोविन्दराजोक्तिं नानुरुन्धहे । इहा चेष्टा तस्यां भवं ऐहिकं त्र्यहपर्य्याप्तमैहिकं धनं यस्य स त्र्यहैहिकः तथा वा स्यात् दिन- त्रयनिर्व्वाहोचितधन इत्यर्थः । श्वोभवं श्वस्तनं भक्तं तदस्यास्तीति मत्वर्थीयमिकं कृत्वा नञ् समासः तथा वा भवेत् ।” इति कुल्लूकभट्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यहैहिक¦ त्रि॰ ईहा चेष्टा तस्यां भवं ठण् ऐहिकम् धनादि-त्र्यहपर्य्याप्तमैहिकं धनं यस्य। दिनत्रयनिर्वाहोचितधन-शालिनि।
“त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा” भनुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यहैहिक¦ mfn. (-कः-की-कं) Providing for three days. E. त्र्यह, and ऐहिक who makes an effort for.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यहैहिक/ त्र्य्--अहै mfn. furnished with food for 3 days Mn. iv , 7.

"https://sa.wiktionary.org/w/index.php?title=त्र्यहैहिक&oldid=413781" इत्यस्माद् प्रतिप्राप्तम्