त्र्यार्षेयाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्र्यार्षेयाः, पुं, (ऋषेरयं आर्षेयः । ऋषि + ढक् । त्रय आर्षेयाः ऋषिधर्म्मा नेत्रादीन्द्रियक्रिया- भावरूपा येषाम् ।) अन्धवधिरमूकाः । यथा । “अत्रोक्तानि वचनानि सर्व्वाणि तिर्य्यगधिकरण- न्यायमूलानि । तथा हि तिर्य्यगधिकरणे । तिर्य्यक्पङ्गुत्र्यार्षेयदेवतानामनधिकार इति यागमात्रे उक्तम् । तत्र हेतवः तिरश्चां विशि- ष्टान्तःकरणविरहात् पङ्गोः प्रचरणविरहात् त्र्यार्षेयाणामन्धवधिरमूकानां अवेक्षणश्रवणो- च्चारणविरहादिति श्रीचन्द्रशेखरवाचप्सतिकृत- चन्दनधेनु-विधिधृततिर्य्यगधिकरणम् ॥ (त्रय आर्षेया ऋषयो यत्र । त्रिप्रवरो गोत्रभेदः ॥)
