त्र्याहिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्र्याहिकः, त्रि, (त्र्यहे भवः । त्र्यह + ठञ् ।) तृतीयेऽह्नि भवः । यथा, ऐकाहिकद्ब्याहिक- त्र्याहिकचातुर्थिकसततज्वरविषमज्वर इत्याद्य- पराजितास्तोत्रम् ॥ (“ऐकाहिको द्ब्याहिकश्च त्र्याहिकश्च तथापरः । वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः ॥” इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥ अस्यौषधं यथा, -- “रसेन गन्धं शङ्खञ्च शिखिग्रीवञ्च पादिकम् । गोजिह्वया जयन्त्या च तण्डुलीयैश्च भावयेत् ॥ प्रत्येकं सप्तसप्ताथ शुष्कं गुञ्जाचतुष्टयम् । जरणेन घृतेनाद्यात् त्र्याहिकज्वरशान्तये ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)
