सामग्री पर जाएँ

त्र्यूषणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्र्यूषणम्, क्ली, (त्रयाणां ऊषणानां पिप्पलीमरिच- शुण्ठीनां समाहारः ।) त्र्युषणम् । इत्यमर- टीकायां भरतः ॥ (“पिप्पलीमरिचं शुण्ठीत्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं व्योषं कटुत्रयमथोच्यते ॥” इति वैद्यकपरिभाषायाम् ॥ अस्य गुणा यथा, -- “त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदश्लीपदपीनसान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) (घृतविशेषः । यथा, चरके चिकित्सास्थाने २२ अध्याधे । “त्र्यूषणां त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् । द्वे पाठे सरलं व्याघ्रीं स्वगुप्तां चित्रकं शटीम् ॥ ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् । त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात् ॥ प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् । ज्वरगुल्भारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥ कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् । त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्र्यूषणम्&oldid=139193" इत्यस्माद् प्रतिप्राप्तम्