त्वः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्वः, त्रि, (तनोति विस्तारयतीति । तन + “तनो- तेरनश्च वः ।” उणां । २ । ६३ । इति चात् क्विप् अनश्च वः । आगमानित्यत्वात् तुग्वै- कल्पिकः ।) भिन्नः । अन्यः । इत्यमरः । ३ । १ । ८२ ॥ (एकः । इति निरुक्तिः । १ । ७ ॥ यथा, ऋग्वेदे । १० । ७१ । ४ । “उत त्वः पश्यन्न ददर्श वात्तमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥” “त्वशब्द एकवाची । एकः । उतशब्दोऽप्यर्थे । पश्यन्नपि मनसा पर्य्यालोचयन्नपि वायं न ददर्श । दर्शनफलाभावान्न पश्यति । त्व एकः शृण्वन्न- प्येनां वाचं न शृणोति श्रवणफलाभावात् । इत्यनेनार्धेनाविद्वानभिहितः ॥” इति तद्भाष्ये सायनः ॥)
