सामग्री पर जाएँ

त्वक्पत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्पत्रम्, क्ली, (त्वगिव पत्राण्यस्य ।) गुडत्वक् । इत्यमरः । २ । ४ । १३४ ॥ तेजपत्रम् । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । सूत्कटम् २ भृङ्गम् ३ त्वचम् ४ चोचम् ५ वराङ्गकम् ६ । इत्यमरः । २ । ४ । १३४ ॥ (यथा, महाभारते । १२ । १७० । १८ । “चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च ॥” यथा, सुश्रुते । १ । ४४ । “रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्वक्पत्रम्&oldid=139206" इत्यस्माद् प्रतिप्राप्तम्