सामग्री पर जाएँ

त्वक्सार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्सारः, पुं, (त्वचि सारो यस्य ।) वंशः । इत्य- मरः । २ । ४ । १६० ॥ (यथा, मनुः । १० । ३७ । “चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहार- वान् ॥” वंशस्य त्वगपि । चे~ चाडि इति भाषा ॥ यथा, सुश्रुते । १ । ८ । “अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरु- विन्दजलौकाग्निक्षारनखगोजीशोफालिका- शाकपत्रकरीरबालाङ्गुलय इति ॥”) गुडत्वक् । इति शब्दचन्द्रिका ॥ शोणवृक्षः । रन्ध्रवंशः । इति राजनिर्घण्टः ॥ (तल्तावा~श इति भाषा ॥ यथा, माघः । ४ । ६१ । “त्यक्साररन्ध्रपरिपूरितलब्धगीति- रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्सार पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।160।2।2

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्सार¦ पु॰ त्वचि सारोऽस्य।

१ वंशे अमरः। त्वगेव सारो-ऽस्य।

२ गुडत्वचि (दारचिनि) ख्याते पदार्थे शब्दच॰।

३ शोणवृक्षे

४ रन्ध्रप्रधानवंशे (तलतावां श) राजनि॰।
“त्वक्साररन्ध्रपरिपूरणलब्धगीतिः” माघः।
“चण्डा-लात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान्” मनुः।
“शि-शूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्-सारादिचतुर्वर्गं छेघे भेद्ये च बुद्धिमान्” सुश्रु॰। त्वक्सारः उत्पत्तिस्थानत्वे नास्त्यस्याः अच्।

५ वंशरोच-नायां स्त्री राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्सार¦ m. (-रः)
1. A bamboo.
2. Woody cassia. f. (-रा) Bamboo manna. E. त्वक् bark, and सार essence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वक्सार/ त्वक्--सार mfn. having an excellent or sound skin Laghuj. ii , 16 Sus3r. i , 35

त्वक्सार/ त्वक्--सार m. a bamboo MBh. R. Sus3r. etc.

त्वक्सार/ त्वक्--सार m. Laurus Cassia (the plant and the bark) L.

त्वक्सार/ त्वक्--सार m. Bignonia indica L.

"https://sa.wiktionary.org/w/index.php?title=त्वक्सार&oldid=413987" इत्यस्माद् प्रतिप्राप्तम्