सामग्री पर जाएँ

त्वग्दोषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वग्दोषः, पुं, (त्वचो दोषो दूषणं यस्मात् ।) कोठरोगः । इति राजनिर्धण्टः ॥ त्वग्जात- रोगः । तस्यौषधं यथा, -- “मन्दोष्णलोध्रनीराम्लचूर्णन्तु कनकस्य च । तेनोद्वर्त्तितदेहस्य हरेद्ग्रीष्मप्रसारिकाम् ॥ त्वद्दोषश्चैव सेकश्च घर्म्मदोषश्च नश्यति ॥” इति गारुडे १९४ अध्यायः ॥ स तु महारोगः । यथा, “महारोगिणः पाप- रोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वद्- दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः ।” इति शुद्धितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=त्वग्दोषः&oldid=139229" इत्यस्माद् प्रतिप्राप्तम्