सामग्री पर जाएँ

त्वचम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वचम्, क्ली, (प्रशस्ता त्वगस्त्यस्येति । अर्श आदि- त्वात् अच् ।) वृक्षविशेषः । दारचिनी इति भाषा ॥ (यथा, सुश्रुते कल्पस्थाने १ अध्याये । “सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् ॥”) तत्पर्य्यायः । त्वक् २ वल्कलम् ३ भृङ्गम् ४ वराङ्गम् ५ मुखशोधनम् ६ शकलम् ७ सिंह- लम् ८ वन्यम् ९ सुरसम् १० कामवल्लभम् ११ उत्कटम् १२ बहुगन्धम् १३ विज्जुलम् १४ वन- प्रियम् १५ नटपर्णम् १६ गन्धवल्कम् १७ वरम् १८ शीतम् १९ । अस्य गुणाः । कटुत्वम् । शीतलत्वम् । कफकासविनाशित्वम् । शुक्राम- शमनत्वम् । कण्ठशुद्धिकरत्वम् । लघुत्वम् । इति राजनिर्घण्टः ॥ वल्कलम् । चर्म्म । (यथा, हरिवंशे । १७७ । १३६ । “श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा मृदुत्वचः ॥” कञ्चुकः । खोलस् इति भाषा ॥ यथा, महा- भारते । १२ । २४९ । ११ । “विमुक्तः सर्व्वपापेभ्यो मुक्तत्वच इवोरगः ॥”) गुडत्वक् । इति धरणिः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वचम् [tvacam], 1 Skin.

Bark.

Cinnamon.

"https://sa.wiktionary.org/w/index.php?title=त्वचम्&oldid=414105" इत्यस्माद् प्रतिप्राप्तम्