सामग्री पर जाएँ

त्वाष्ट्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्वाष्ट्रः, पुं, (त्वष्टुरपत्यं पुमान् । अण् ।) वृत्रा- सुरः । इति त्रिकाण्डशेषः ॥ (यथा, देवी- भागवते । ५ । ५ । ४ । “उद्यमेन हतस्त्वाष्ट्रो नमुचिर्ब्बल एव च ॥” विश्वरूपः । यथा, भागवते । ६ । ८ । ३ । “वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ॥” त्वष्टृसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । २१ । ८५ । “ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दान- वान् ॥” तथा, भागवते । ६ । १४ । २७ । “श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमजयद्बिभुः ॥” त्वष्टा अधिष्ठात्री देवतास्येति अण् । चित्रा- नक्षत्रम् । यथा, बृहत्संहितायाम् । ७ । ११ । “घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणञ्चैव ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्वाष्ट्रः&oldid=139265" इत्यस्माद् प्रतिप्राप्तम्