त्विट्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्विट्, [ष्] स्त्री, (त्विष दीप्तौ + सम्पदादित्वात् क्विप् ।) शोभा । (यथा, महाभारते । ३ । २० । २ । “अपश्यं द्बारकाञ्चाहं महाराज ! हतत्विषम् ॥”) प्रभा । (यथा, माधे । १ । ३ । “चयस्त्विषामित्यवधारितं पुर- स्ततः शरीरीति विभाविताकृतिम् ॥”) वाक् । इति मेदिनी । षे, १३ ॥ व्यवसायः । जिगीषा । इति विश्वः ॥ (दीप्यमाने, त्रि । यथा, ऋग्वेदे । ४ । १७ । २ । “तव त्विषो जनिमन्रेजत द्यौरेजद्भूमिर्भियसा स्वस्य मन्योः ॥” “हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये जनिमन् जन्मनि सति ।” इति तद्भाष्ये सायनः ॥)
