त्सरुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्सरुः, पुं, (त्सरति कौटिल्यं गच्छतीति । त्सर + “भृमृशीतॄचरित्सरीति ।” उणां १ । ७ । इति उः ।) खड्गमुष्टिः । इत्यमरः । २ । ८ । ९० ॥ तत्पर्य्यायः । मुष्टिः २ तालतलः ३ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्त- शत्याम् । २४३ । “ज्योत्स्नाभिसारसमुचितवेशे ! व्याकोष- मल्लिकोत्तंसे ! । विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छ- रिका ॥” सर्पः । यथा, ऋग्वेदे । ५ । ५० । १ । “मा मां पद्येन रपसा विदत्त्सरुः ।” “तथा त्सरुश्छद्मगामी जिह्मगः सर्प इत्यर्थः मां पद्येन पादभवेन रपसा । रपि शब्दकर्म्मा । शब्देन मा विदत् मा जानातु ।” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्सरुः [tsaruḥ], 1 Any creeping animal, मा मां पद्येन रपसा विदत त्सरुः Rv.7.5.1.
The hilt or handle of a sword or any other weapon; सुप्रग्रहविमलकलधौतत्सरुणा खड्गेन Ve.3; त्सरुप्रदेशादपवर्जिताङ्गः Ki.17.58; R.18.48. -Comp. -मार्गः sword-exercise; त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु Mb.1.134.3.
