दक्षकन्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दक्षकन्या, स्त्री, (दक्षस्य प्रजापतेः कन्या ।) दुर्गा । इति त्रिकाण्डशेषः ॥ दक्षप्रजापतेः सुता । ताः पञ्चाशत्सङ्ख्यकाः । तासां नामानि यथा, -- “सती ज्योतिः स्मृतिः स्वाहा ह्यनुसूया स्वधा तथा । प्रीतिः क्षमा च संभूतिः सन्नतिश्च अरुन्धती ॥ कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धाक्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिस्तथा रतिः ॥ अरुन्धाती वसुर्यामी लवा भानुर्म्मरुत्वती । सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः ॥ अदितिश्च दितिश्चैव दनुः काला दनायुषा । सिंहिका सुरसा कद्रुर्विनता सुरभिः स्वसा ॥ क्रोधा इरा च प्रोवा च दक्षकन्याः प्रकीर्त्तिताः । पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (अयं द्वितीयजन्मनि प्राचेतसो भूत्वा षष्टिं कन्या जनयामास । यथा, मत्स्यपुराणे । ५ । १२-१४ । “ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः । वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥ प्रादात् स दश धर्म्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये ॥ द्वे चैव भृगुपुत्त्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरः ॥ शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः ॥” एतासां नामानि तत्रैव द्रष्टव्यानि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दक्षकन्या¦ स्त्री

६ त॰। दक्षस्य सुतासु ताश्च षष्टिः। यथाहमत्स्यपु॰

५ अ॰। (
“ततस्तेषु विनष्टेषु षष्टिं कत्याः प्रजापतिः। वै-रिण्यां जनयामास दक्षः प्राचेतसस्तथा। प्रादात् स दशधर्माय कश्यपाय त्रयोदश। सप्तविंशतिं सोमाय चतस्रो-ऽरिष्टनेमये। द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते। द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्”।
“तांश्चैवनष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः। षष्टिं ततो-ऽसृजत् कन्यां वैरिण्यामिति नः श्रुतम्। तास्तदा प्रति-जग्राह भार्य्यार्थं कश्यपः प्रभुः। सोमो धर्मश्च कौरव्य। तथैवान्ये महर्षयः। ददौ स दश धर्माय कश्यपायत्रयोदश। सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने। द्वेचैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा। द्वे कृशाश्वाय वि-दुषे तासां नामानि मे शृणु” हरिवं॰

३ अ॰।

२ सतीना-म्न्यां भवपत्न्यां दुर्गायाञ्च तत्कथा
“प्रसूतिं मानवीं दक्षःउपयेमे ह्यजात्मजः। तस्यां ससर्ज्ज दुहितॄः षोडशाम-ललोचनाः। त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः। पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे” भाग॰

४ ।

१ ।
“अथापमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी। सती सती योगविसृष्टदेहा कुमा॰ दक्षसुतादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दक्षकन्या¦ f. (-न्या)
1. A name of DURGA.
2. Any lunar mansion. E. दक्ष, and कन्या the maiden, the daughter of DAKSHA, who in this case seems to be identified with Himalaya, the snowy mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दक्षकन्या/ दक्ष--कन्या f. a daughter of MBh. i

दक्षकन्या/ दक्ष--कन्या f. दुर्गाL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Dakṣakanyā  : f. (sg. and pl.): Daughter(s) of Dakṣa.

Thirteen in number: Aditi, Diti, Danu, Kālā, Anāyus, Siṁhikā, Muni, Krodhā, Prāvā, Ariṣṭā, Vinatā, Kapilā, Kadrū 1. 59. 11-13.

_______________________________
*5th word in left half of page p30_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=दक्षकन्या&oldid=445418" इत्यस्माद् प्रतिप्राप्तम्