सामग्री पर जाएँ

दण्डधरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डधरः, पुं, (दण्डस्य धरः । दण्डं धारयति । धृञ् धारणे + पचाद्यचि णिलुक् । इत्युज्ज्वल- दत्तः । २ । २२ ।) यमः । इत्यमरः । १ । १ । ६२ ॥ (यथा, राजतरङ्गिण्याम् । ४ । ६५९ । “ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः । अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥”) राजा । इति जटाधरः ॥ (यथा, रघुः । ९ । ३ । “बलनिषूदनमर्थपतिञ्च तं श्रमनुदं मनुदण्डधरान्वयम् ॥”) त्रि, लगुडधारकः ॥ (शासकः । यथा, महा- भारते । १२ । २३ । ४३ । “एवमेतन्मया कार्य्यं नाहं दण्डधरस्तव ॥” चतुर्थोपाययुक्तः । यथा, भागवते । ४ । २१ । २२ । “अहं दण्डधरो राजा प्रजानामिव योजितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दण्डधरः&oldid=139387" इत्यस्माद् प्रतिप्राप्तम्