सामग्री पर जाएँ

दण्डधार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डधारः, पुं, (दण्डं धरतीति । धृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पृथ्वीनाथः । (यथा, गोः रामायणे । २ । ८८ । ७ । “उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केरलाः । दण्डधाराश्च सामुद्रा रत्नान्युपहरन्तु ते ॥”) प्रेताधिपः । इति मेदिनी । रे, २६६ ॥ (सनाम- ख्यातनृपविशेषः । स तु क्रोधवर्द्धनस्यासुर- स्यांशेन जातः । यथा, महाभारते । १ । ६७ । ४७ । “क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥” धृतराष्ट्रपुत्त्राणामेकतमः । यथा, तत्रैव धृत- राष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ । “निषङ्गी कवची पाशी दण्डधारो धनुर्ग्रहः ॥”) त्रि, दण्डधरः ॥ (शासकः । यथा, राज- तरङ्गिण्याम् । ४ । १०९ । “दण्डधारे त्वयि क्षाप ! क्षितिमेतां प्रशासति । को वैरस्नेहयोः पारमनासाद्यावसीदति ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डधार¦ पु॰ दण्डं धरति धृ--अण् उप॰ म॰।

१ यमे

२ नृपे[Page3433-b+ 38] च मेदि॰।

३ लगुडहस्ते त्रि॰
“क्रोधवर्द्धन इत्येव य-स्त्वन्यः परिकीर्त्तितः। दण्डधार इति ख्यातः स आ-सीन् नृपतिः क्षितौ” भा॰ आ॰

६७ अ॰ उक्ते

४ नृपभेदे पु॰

५ धृतराष्ट्रपुत्रभेदे।
“कवची निषङ्गी दण्डी दण्डधारोधनुर्ग्रहः”

६७ अ॰ धृतराष्ट्रपुत्रकथने।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डधार/ दण्ड--धार mfn. = रकMBh. iii , 1596 ( यम) Ka1m. Ra1jat. iv

दण्डधार/ दण्ड--धार mfn. a king L.

दण्डधार/ दण्ड--धार mfn. यमL.

दण्डधार/ दण्ड--धार mfn. N. of a prince slain by अर्जुन(brother of दण्डand identified with the असुरक्रोध-वर्धन) MBh. i f. , viii

दण्डधार/ दण्ड--धार mfn. of a son of धृत-राष्ट्र, i , 2738

दण्डधार/ दण्ड--धार mfn. pl. N. of a people R. (G)ii , 88 , 7.

"https://sa.wiktionary.org/w/index.php?title=दण्डधार&oldid=415194" इत्यस्माद् प्रतिप्राप्तम्