दण्डधारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डधारः, पुं, (दण्डं धरतीति । धृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पृथ्वीनाथः । (यथा, गोः रामायणे । २ । ८८ । ७ । “उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केरलाः । दण्डधाराश्च सामुद्रा रत्नान्युपहरन्तु ते ॥”) प्रेताधिपः । इति मेदिनी । रे, २६६ ॥ (सनाम- ख्यातनृपविशेषः । स तु क्रोधवर्द्धनस्यासुर- स्यांशेन जातः । यथा, महाभारते । १ । ६७ । ४७ । “क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥” धृतराष्ट्रपुत्त्राणामेकतमः । यथा, तत्रैव धृत- राष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ । “निषङ्गी कवची पाशी दण्डधारो धनुर्ग्रहः ॥”) त्रि, दण्डधरः ॥ (शासकः । यथा, राज- तरङ्गिण्याम् । ४ । १०९ । “दण्डधारे त्वयि क्षाप ! क्षितिमेतां प्रशासति । को वैरस्नेहयोः पारमनासाद्यावसीदति ॥”)
