सामग्री पर जाएँ

दण्डनायकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डनायकः, पुं, (दण्डं राज्ञां चतुर्थोपायं नय- तीति । नी + ण्वुल् ।) सेनानीः । स चतुरङ्ग- बलाध्यक्षः । इति हेमचन्द्रः । ३ । ३८९ ॥ (यथा, राजतरङ्गिण्याम् । ७ । ९६९ । “कन्दर्पे कोटभृत्यानां भिन्नानां सङ्ग्रहोद्यते । कुध्यन् राजपुरीं राजा व्यसृजद्दण्डनायकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दण्डनायकः&oldid=139391" इत्यस्माद् प्रतिप्राप्तम्