दण्डनीतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डनीतिः, स्त्री, (दण्डेन नीयते या । यद्बा, दण्डो नीयतेऽनयेति । नी + कर्म्मणि करणे वा क्तिन् ।) व्यर्यशास्त्रम् । इत्यमरः । १ । ६ । ५ ॥ तत् चाणक्यादिप्रणीतं नीतिशास्त्रम् । इति भरतः । तस्य निरुक्तिर्यथा, -- “दण्डेन नीयते चेदं दण्डं नयति वा पुनः । दण्डनीतिरिति ख्याता त्रील्लो~ कानतिवर्त्तते ॥ तच्च ब्रह्मकृतशतसहस्राध्यायपरिमितम् । तद्यथा, -- “ततोऽध्यायसहस्राणां शतञ्चक्रे सुबुद्धिजम् । यत्र धर्म्मस्तथैवार्थः कामश्चैवाभिवर्णितः ॥ त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा । चतुर्थो भोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥ मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ नात्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः ॥ त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ ! । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम् । चारश्च विविधोपायः प्रणिधेयः पृथग्विधः ॥ सामभेदप्रदानञ्च ततो दण्डश्च पार्थिव । उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥ मलश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च । विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम् ॥ सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः । भयं सत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥ यात्राकालश्च चत्वारस्त्रिवर्गस्य च विस्तरः । विजयो धर्म्मयुक्तश्च तथार्थविजयश्च ह ॥ आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः । लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम् ॥ प्रकागश्चाप्रकाशश्च दण्डीऽथ परिशब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥ रया नागा हयाश्चैव पादाताश्चैव पाण्डव ! । विष्टिनांवश्चराश्चेह देशिका इति चाष्टमम् ॥ अङ्गान्येतानि कौरव्य ! प्रकाशानि बलस्य च । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥ अर्गे चाभ्यवहार्य्ये वाप्युपांशुस्त्रिविधः स्मृतः । अस्तिर्म्मित्रमुदामीन इत्येतेऽप्यनुत्वर्णिताः ॥ कृतम्नो मार्गगुणश्चैय तथा भूमिगुणाश्च ह । आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् ॥ कल्पना विविधाश्चापि नृनागरथवाजिनाम् । द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया । देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः ॥ धर्म्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः । उपायश्चात्र लिप्सा च विविधा भूरिदक्षिण ! ॥ मूलकर्म्मक्रिया चात्र मायायोगश्च वर्णितः । दूषणं स्रोतसाञ्चैव वर्णितञ्च स्थिराम्भसाम् ॥ यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः । तत् सर्व्वं राजशार्दूल ! नीतिशास्त्रेषु वर्णितम् ॥ एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः । देवानुवाच संहृष्टः सर्व्वान् शक्रपुरोगमान् ॥ उपकाराय लोकस्य त्रिवर्गस्थापनाय च । नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥ दण्डेन सहिता ह्येषा लोकरक्षणकारिका । निग्रहानुग्रहरता लोकाननुचरिष्यति ॥” इति महाभारते राजधर्म्मः ॥ दुर्गा । यथा, -- “नयानयगतालोके विकल्प निलयामला । दण्डनाद्गमनाद्वापि दण्डनीतिरिति स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥
