दण्डपाणि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपाणिः, पुं, (दण्डः पाणौ यस्य ।) यमः । (यथा, भागवते । १ । १७ । ३५ । “परीक्षितैवमादिष्टः स कलिर्जातवेपथुः । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥”) काशीस्थशिवगणविशेषः । स पूर्णभद्रयक्षपुत्त्रः हरिकेशनामा शिवमाराध्य शिववरेण काश्यां दण्डनायकत्वमवाप्तवान् । यथा, -- “भक्तस्य धीरस्य तपोनिधेर्द्ददौ हरो वराणां निकरं तदा मुदा । क्षेत्रस्य यक्षास्य मम प्रियस्य भो भवाधुना दण्डधरो वरान्मम ॥ स्थिरस्त्वमद्यादि दुरात्मदण्डकः सुपालकः पुण्यकृताञ्च मतुप्रियः । त्वं दण्डपाणिर्भव नामतोऽधुना सर्व्वान् गणान् शाधि ममाज्ञयोत्कटान् ॥” “त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट् कस्त्वामनाराध्य सुमुक्तिभाग्जनः । सभाजनं प्रागत एव ते चरेत् ततः समर्च्चां मम भक्त आदरात् ॥ मद्भक्तियुक्तोऽपि विना त्वदीयां भक्तिं न काशीवसतिं लभेत । गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दण्डपाणे ! ॥” इति काशीखण्डे ३२ अध्यायः । (स्वनामख्यातश्चन्द्रवंशीयनृपविशेषः । यथा, मात्स्ये । ५० । ८७ । “वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति ॥” अयन्तु मासत्रयाधिकचत्वारिंशद्वर्षपर्य्यन्तं राज्यं चकार । यथा, राजावल्याम् १ परिच्छेदे । “चत्वारिंशत् समाश्चैव सोऽपि मासत्रयाधिकाः । बुभुजे पृथिवीमेतां दण्डपाणिर्महाबलः ॥” दण्डधरे, त्रि । यथा, महाभारते । १ । १३९ । २८ । “भीमसेनो महाबाहुर्द्दण्डपाणिरिवान्तकः । प्रविवेश महासेनां मकरः सागरं यथा ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपाणि¦ पु॰ दण्डः यष्टिः पाणौ यस्य। दण्डधरे यमे। काशीस्थे
२ भैरवभेदे
“विश्वेशं माधवं ढुण्ढिं दण्ड-पाणिञ्च भैरवम्” स च पूर्णभद्रयक्षसुतो हरिकेशनामाआराधितशिववरेण काश्यां दण्डपाणिनामत्वम-वाप। यथाह काशीख॰
३२ अ॰
“इति श्रुत्वा वचःपत्न्याः पूर्णभद्रः स यक्षराट्” इत्थुपक्रमे
“अन्तर्वत्न्यथकालेन तत्पत्नी सुषुवे सुतम्। तस्य नाम पिता चक्रेहरिकेश इति द्विज!” इत्यनेन तस्योत्पत्तिमुक्त्वा तस्यशिवाराधनमुपवर्ण्य तपसाप्रसन्नशिवस्य तस्मै वरदानमुक्तंयथा
“भक्तस्य धीरस्य तपोनिधेदेदौ हरो वराणां निकरंतदा मुदे। क्षेत्रस्य यक्षास्य मम प्रियस्य भो भवाधुनादण्डधरो वरान्मम। स्थिरस्त्वमद्यादि दुरात्मदण्डकःसुपालकः पुण्टकृताञ्च मत्प्रियः। त्वं दण्डपाणिर्भवनामतोऽधुना सर्वान् गणान् शाधि ममाज्ञयोत्कटान्। त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट् कस्त्वामनाराध्य मुमु-क्तिभाजनम्। सभाजनं प्रागत एव ते चरेत् ततः समर्च्चामम भक्त आदरात्। मद्भक्तियुक्तोऽपि विना त्वदीयांभक्तिं न काशीवसतिं लभेत। गणेषु देवेषु हि मान-वेषु तदग्रमान्यो भव दण्डपाणे”। काश्यां तत्स्थिति-स्थानञ्च तत्रैवोक्तं यथा
“त्वं दक्षिणस्यां दिशि दण्ड-पाणे! सदैव मे नेत्रसमक्षमत्र। त्वं दण्डयन् प्राण-भृतो दुरीहानिहास्व निस्वानभयं दिशन् वै”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपाणि¦ m. (-णिः)
1. YAMA.
2. A staff-bearer.
3. One of SIVA'S atten- dants worshipped at Benares. E. दण्ड, and पाणि a hand.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपाणि/ दण्ड--पाणि mfn. ( ड-)( g. आहिता-ग्न्य्-आदि)staff-handed S3Br. xi Katha1s. liv
दण्डपाणि/ दण्ड--पाणि m. a policeman Ha1sy.
दण्डपाणि/ दण्ड--पाणि m. यमShad2vBr. v , 4 BhP. i , v
दण्डपाणि/ दण्ड--पाणि m. N. of the leader of 2 of शिव's troops Ka1s3iKh. xxxii
दण्डपाणि/ दण्ड--पाणि m. of the father of बुद्ध's wife गो-पाLalit. xii Suvarn2apr. xviii
दण्डपाणि/ दण्ड--पाणि m. of a काशिking PadmaP.
दण्डपाणि/ दण्ड--पाणि m. of a physician Bhpr. vii , 8 , 137
दण्डपाणि/ दण्ड--पाणि m. of a prince (grandfather of क्षेमक) BhP. ix , 22 , 42 Va1yuP. ii , 37 , 270 ff. MatsyaP. l , 87 Brahma7n2d2aP.
दण्डपाणि/ दण्ड--पाणि m. ( खण्ड्VP. iv , 21 , 4. )
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--the son of वहीनर, and father of Nimi (Nimitta-वि। प्।). भा. I. १७. ३५; IX. २२. ४३-44; M. ५०-87; Vi. IV. २१. १५.
(II)--the son of मेधावि. वा. ९९. २७६.
