दण्डपारुष्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपारुष्यम्, क्ली, (दण्डेन यत् पारुष्यं परुषता । दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणमिति मिताक्षरा ।) राज्ञां सप्त- व्यसनान्तर्गतव्यसनविशेषः । इति हेमचन्द्रः । ३ । ४०३ ॥ अष्टादशविवादान्तर्गतविवाद- विशेषः । तत्तु ताडनादि । इति मनुटीकायां कुल्लूकभट्टः ॥ (यथा, मनुः । ८ । २७८ । “अत ऊद्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपारुष्य¦ न॰ दण्डेन देहेन पारुष्यम्। व्यवहारविषय-भेदे
“तत्स्वरूपञ्च नारदेनोक्तम्
“परगात्रेष्वभिद्रोहोहस्तपादायुधादिभिः भस्मादिभिश्चोपघातो दण्ड-पारुष्यमुच्यत” इति।
“परगात्रेषु स्थावरजङ्गमात्मक-द्रव्येषु हस्तपाद्रायुधैरादिग्रहणाद्ग्रावादिभिर्योऽभि-द्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदि-ग्रहणाद् रजःपङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपंमनोदुःखोत्पादनन्तदुभयं दण्डपारुष्यम्। दण्ड्यतेऽने-नेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणं जङ्ग-मादेर्द्रव्यस्य, तद्दण्डपारुष्यम्” मिता॰। ( तद्भेदादिकं वीरमि॰ उक्तं यथा(
“तस्य त्रैविध्यमाह नारदः।
“तस्यापि दृष्टन्त्रैविध्यं[Page3435-b+ 38] हीनमध्योत्तमक्रमात्। अवगोरणनिःशङ्कपातनक्षत-दर्शनैः। हीनमध्योत्तमानाञ्च द्रव्याणां समतिक्रमात्। त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनमिति”। अव-गोरणं ताडनाद्युद्योगः। निःशङ्कपातनं निःशङ्कप्रह-रणम्। त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसा-कृतानि दण्डपारुष्याणीत्यर्थः। अन्यानपि भेदानाहपरिशिष्टकारः।
“दुःखं रक्तं व्रणं भङ्गं छेदनं भेदन-न्तथा। कुर्य्याद्यः प्राणिनां तद्धि दण्डपारुष्य-मुच्यते”। स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतनखा-दिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्य-मुच्यत इत्यर्थः। व्यासोऽपि
“भस्मादिना प्रक्षिपणीताडनञ्च करादिना। आवेष्टनञ्चांशुकाद्यैर्दण्डपारुष्य-मुच्यते”। आदिग्रहणाद्दुःखकरं कर्दमपांशु-मलादि द्रव्यं गृह्यते। करादिनेत्यादिशब्देन पाषा-णेष्टकायुधादि द्रव्यम्। अंशुकाद्यैरित्यादिशब्देन रज्ज्वु-शृङ्खलादिद्रव्यम्। दण्डपारुष्यस्य पञ्चप्रकाराविधयो नारदेन दर्शिताः।
“विधिः पञ्चविधस्तूक्तएतयोरुभयोरपि। पारुष्ये सति संरम्भादुत्पन्नेक्रुद्धयोर्द्वयोः। स मान्यते यः क्षमते दण्डभाग्योऽति-वर्त्तते। पूर्ववमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक्। पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः। द्वयो-रापन्नयोस्तुल्यमनुबध्राति यः पुनः। स तयोर्दण्ड-माप्नोति पूर्वो वा यदि चेतरः। पारुष्यदीषावृतयो-र्युगपत्सम्प्रवृत्तयोः। विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः। श्वपाकषण्डचाण्डालव्यङ्गेषु बधवृत्तिषु। हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च। मर्य्यादातिक्रमेसद्यो घात एवानुशासनम्। यमेव ह्यतिवर्त्तेरन्नेतेसन्तञ्जनं नृषु। स एव विनयं कुर्य्यात् न तद्विनय-भाङ्नृपः। मला ह्येते मनुष्याणां धनमेषां मलात्म-कम्। अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डये-दिति”। अयमर्थः। वाग्दण्डपारुष्ययोंसभयोरपिद्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते न तस्य केवलंदण्डाभाव एव किन्तु पूज्यत्वमपि। तथा पूर्वं कलहेप्रवृत्तस्य दण्डगुरुत्वम्। कलहे च वृद्धवैरानुसन्धातुरेवदण्डभाक्त्वम्। तथा तयोर्द्वयोरपराधविशेषापरि-ज्ञाने सम एव दण्डः। तथा श्वपचादिभिरार्याणामप-राधे कृते सज्जना एव दण्डने अधिकारिणस्तेषा-मशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति। [Page3436-a+ 38] यत्तु वृहस्पतिवचनम्
“आक्रुष्टस्तु समाक्रोशंताडितः प्रतिताडयन्। हत्वापराधिनञ्चैव नापराधीभवेन्नरः” इति। तत्पूर्वप्रवृत्तस्य समो दण्डः पश्चात्प्रवृत्तस्य नेत्येवंपरन्न तु दण्डाभावपरम्। दण्डपारुष्यस्वरूपसन्देहे निर्णायकमाह याज्ञवल्क्यः
“असा-क्षिकहते चिह्नैर्युक्तिभिश्चागमेन च। द्रष्टव्यो व्यव-हारस्तु कूटचिह्नकृतो भयादिति”। यदा कश्चिद्रहस्य-हमनेनाहत इति राज्ञे निवेदयति तदा चिह्नैर्व्रणा-दिभिस्तत्स्वरूपगतैर्लङ्गैः युक्तिभिः कारणप्रयोजनपर्य्यालोचनादिभिः आगमेन जनप्रवादेन चशब्दा-द्दिव्येन वा कूटचिह्नकृतसम्भावनभयात् परीक्षाकार्य्येत्यर्थः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपारुष्य¦ n. (-ष्यं)
1. Assault and battery, a title of jurisprudence.
2. Infliction of cruel punishment, one of the seven vices of kings and rulers. E. दण्ड punishment, पारुष्य severity.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डपारुष्य/ दण्ड--पारुष्य n. actual violence , harsh punishment Gaut. Mn. viii , 278 and 301 Pan5cat.
