सामग्री पर जाएँ

दण्डपारुष्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डपारुष्यम्, क्ली, (दण्डेन यत् पारुष्यं परुषता । दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणमिति मिताक्षरा ।) राज्ञां सप्त- व्यसनान्तर्गतव्यसनविशेषः । इति हेमचन्द्रः । ३ । ४०३ ॥ अष्टादशविवादान्तर्गतविवाद- विशेषः । तत्तु ताडनादि । इति मनुटीकायां कुल्लूकभट्टः ॥ (यथा, मनुः । ८ । २७८ । “अत ऊद्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दण्डपारुष्यम्&oldid=139399" इत्यस्माद् प्रतिप्राप्तम्