सामग्री पर जाएँ

दण्डापूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डापूप¦ पु॰ दण्डे दण्डाकर्षे अपूपस्य तत्सम्बद्धस्या-पूपस्याकर्षः। दण्डाकर्षणे अर्थसिद्धे तत्सम्बद्धापूपस्या-कर्षे। तत्प्रतिपादकः न्यायः दण्डापूपन्यायः। यथा
“भुञ्जीतामरणात् क्षान्तेति” वचनेन जाताधिकारायाःपत्न्या अभावे अनुत्पन्नाधिकारपत्न्यभायोक्तानां पूर्वधन-स्वामिदायग्राहिणां दुहित्रादीनां घनाधिकारस्यदर्भितत्वात् पत्नीतो जघन्यदुहितृदौहित्रयोरधिकारेदण्डापूपन्यायसिद्धोऽयमर्थः”
“स्थावरपदाद्दण्डापूप-न्यायादेवापरस्य धनस्य सिद्धिः” दा॰ भा॰ दण्डापूपइवाचरति क्यच ततः कर्त्तरि क्तः। दण्डापूपायित-दण्डापूपवदाचरिते पदार्थे
“पत्न्या च भर्त्तृधनात्कन्यायै विवाहार्थं तुरीयांशो देयः, पुत्राणामेव तद्दान-प्रतिपादनात् दण्डापूपायितं पत्न्यादीनां दानम्” दा॰ भा॰।
“यथा दण्डाकर्षे तत्सम्बद्धस्यापूपस्याप्याकर्षः तथा अपुत्र-संक्रान्तधनस्य पत्नीगततया आकर्षे तत्सम्बद्धस्य कन्यावि-वाहधनावशिष्टत्वविशेषस्याप्याकर्ष इति भावः” श्रीकृष्णः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डापूप/ दण्डा " stick and cake "

"https://sa.wiktionary.org/w/index.php?title=दण्डापूप&oldid=282331" इत्यस्माद् प्रतिप्राप्तम्