दण्डी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दण्डी, [न्] पुं, (दण्डोऽस्त्यस्येति । दण्ड + “अत- इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) जिनविशेषः । इति त्रिकाण्डशेषः ॥ (स तु कवी- नामन्यतमः काव्यादर्शदशकुमारचरितादिग्रन्थ- प्रणेता । शङ्कराचार्य्यसमकालीनोऽयम् । यथा, शङ्करविजये । १५ । १४० । “स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् । शिथिलीकृतदुर्म्मताभिमानान् निजभाष्यश्रवणोत्सुकांश्चकार ॥”) यथा, कालिदासः । “जाते जगति वाल्मीके कविरित्यभिधीयते । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥” दमनकवृक्षः । इति राजनिर्घण्टः ॥ यमः । (यथा, महाभारते । १ । १९० । १७ । “तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ॥”) द्बाःस्थः । चतुर्थाश्रमी । (अस्य व्यवहारादिकं यदुक्तं मनौ । ६ । ४१-५८ । येयुः इति साम्प्रदायिकाः ॥ एतेषां काशी एव प्रधानतमं वासस्थानम् ॥ * ॥ महादेवः । यथा, महाभारते । १३ । १७ । १२९ । “मुण्डोविरूपो विकृतो दण्डी कुण्डी विकुर्व्वणः ॥” योगाचार्य्यविशेषः । यथा, शिवपुराणे वायु- संहितायाम् । उत्तरभागे । १० । ५ । श्रीकृष्ण उवाच । “युगावर्त्तेषु सर्व्वेषु योगाचार्य्यच्छलेन तु । अवताराणि शर्व्वस्य शिष्यांश्च भगवन् ! वद ॥” उपमन्युरुवाच । “महाकालश्च शूली च दण्डी मुण्डी स एव च ॥” धृतराष्ट्रपुत्त्राणामेकतमः । यथा, महाभारते धृतराष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ । “निषङ्गी कवची दण्डी दण्डधारो धनुर्ग्रहः ॥” दण्डीत्यत्र पाशीति केचित् ॥) दण्डयुक्ते त्रि । इति हेमचन्द्रः । ३ । ३८५ ॥ (यथा, महा- भारते । १३ । १४ । ३७४ । “दण्डी मुण्डी कुशी चीरी घृताक्तोमेखलीकृतः ॥”)
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DAṆḌĪ II : A god. This god is worshipped as a waiter of the Sun. The sun is consecrated in a chariot of one wheel, yoked with seven horses, and wearing two lotus flowers. On the rightside of the Sun his waiter Daṇḍī will be standing as door-keeper with ink and pen in his hand, and on the left his waiter Piṅgala will be stand- ing with a stick in his hand. These two gate-keepers are the two gaṇas of the Sun. (Agni Purāṇa, Chap- ter 51).
_______________________________
*3rd word in left half of page 202 (+offset) in original book.
DAṆḌĪ III : A famous critic and writer of Sanskrit literature. He lived in the 6th century B.C. His criti- cal work Kāvyādarśa made him famous. There are three chapters in this book. The first chapter is about criticism of poetry and the use of idioms. The second chapter deals with figurative language. The third chapter deals with alliteration and rhyme and the flaws in poetry.
‘Daśakumāracarita’, is supposed to be another work of Daṇḍī. (History of Classical Sanskrit Literature).
_______________________________
*4th word in left half of page 202 (+offset) in original book.
