सामग्री पर जाएँ

दण्डोत्पलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दण्डोत्पलम्, क्ली, (दण्डयुक्तमुत्पलमिव ।) वृक्ष- विशेषः । डानिपोला इति डानकुनि इति च भाषा । अस्य गुणाः । क्षयश्वासकासनाशि- त्वम् । अग्निदीपनत्वञ्च । इति राजवल्लभः ॥ तत्तु पीतरक्तश्वेतपुष्पभेदेन त्रिविधम् । पीतस्य पर्य्यायः । गोवन्दनी २ गन्धवल्ली ३ सहदेवी ४ सहा ५ । रक्तस्य पर्य्यायः । विश्वदेवा १ । श्वेतस्य । दण्डोत्पला १ । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=दण्डोत्पलम्&oldid=139436" इत्यस्माद् प्रतिप्राप्तम्