सामग्री पर जाएँ

दत्तकपुत्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दत्तकपुत्त्रः, पुं, (दत्तक एव पुत्त्रः ।) द्वादशविध- पुत्त्रान्तर्गतपुत्त्रविशेषः । यथा, याज्ञवल्क्ये । “दद्यान्माता पितावा यं स पुत्त्रो दत्तको भवेत् ॥” तत्परिग्रहणस्य प्रकारो यथा, -- “शुक्रशोणितसम्भवः पुत्त्रो मातापितृनिमित्तकः । तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥ नत्वेकं पुत्त्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्ता- नाय पूर्ब्बेषाम् । स्त्री पुत्त्रं न दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानु- ज्ञानाद्भर्त्तुः ॥ पुत्त्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा प्रतिगृह्णीया- दिति ।” इति वशिष्ठः ॥ तस्य गोत्रधनप्राप्ति- र्यथा, -- “गोत्रऋक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः । गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वघा ॥ पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ! । आचूडान्तं न पुत्त्रः स पुत्त्रतां याति चान्यतः ॥ चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥ ऊर्द्ध्वन्तु पञ्चमाद्बर्षान्न दत्ताद्याः सुता नृप ! । गृहीत्वा पञ्चवर्षीयपुत्त्रेष्टिं प्रथमञ्चरेत् ॥” इत्युद्वाहतत्त्वम् ॥ दत्तको द्विविधः । केवलदत्तकः द्व्यामुष्यायणदत्त- कश्च । केवलदत्तको जनकेन प्रतिग्रहीत्रर्थमेव दत्तः तस्यैव पुत्त्रः । द्व्यामुष्यायणस्तु जनकप्रति- ग्रहीतृभ्यामावयोरयमितिसंप्रतिपन्नः स उभयो- रपि पुत्त्रः ।” इति मिताक्षरा ॥

"https://sa.wiktionary.org/w/index.php?title=दत्तकपुत्त्रः&oldid=139447" इत्यस्माद् प्रतिप्राप्तम्