दत्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्तम्, त्रि, (दीयते इति । दा + क्तः ।) रक्षितम् । कृतदानम् । तत्पर्य्यायः । विसृष्टम् २ । इति त्रिकाण्डशेषः ॥ विश्राणितम् ३ । इति शब्द- रत्नावली ॥ (यथा, माघे । १ । १५ । “स्वहस्तदत्ते मुनिमासने मुनि- श्चिरन्तनस्तावदभिन्यवीविशत् ॥” दा + भावे क्तः ।) दाने, क्ली । तत् सप्तविधं यथा, -- “दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् । पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥ अदत्तन्तु भयक्रोधशोकावेशरुगन्वितैः । तथोत्कोचपरीहारव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्य्ये चाधर्म्मसंहिते । यद्दत्तं स्यादवज्ञानात् तददत्तमिति स्मृतम् ॥” इति मिताक्षरा ॥
